पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
334
[बालकाण्डः
गङ्गावतरणम्

 तत्र देवर्षिगन्धर्वा वसुधातलवासिनः
 भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः ॥ २६ ॥

 भवाङ्गं–जटा ॥ २६ ॥

 शापात्प्रपतिता ये च गगनाद्वसुधातलम् ।
 कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः ॥ २७ ॥
 [१]धूतपापाः पुनस्तेन तोयेनाथ [२]शुभान्विताः ।
 पुनराकाशमाविश्य स्वांल्लोकान् प्रतिपेदिरे ॥ २८ ॥

 न केवलं पापसंहारमात्रं कृत्यं गङ्गायाः; अपि तु पुण्यलोक-प्रापणमपीत्युच्यते-पुनराकाशमित्यादि ॥ २८ ॥

 मुमुदे मुदितो लोकस्तेन तोयेन भास्वता ।
 कृताभिषेको गङ्गायां बभूव विगतक्लमः ॥ २९ ॥

 दर्शनमात्रेण मुदितो लोकः विशिष्य स्नानपानादिना मुमुदे ॥

 भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः ।
 प्रायादग्रे महातेजास्तं गङ्गा पृष्ठतोऽन्वगात् ॥ ३० ॥
 देवाः सर्पिगणाः सर्वे दैत्यदानवराक्षसाः ।
 गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ ३१ ॥
 सर्वाश्चाप्सरसो राम ! भगीरथ[३]रथानुगाः ।
 गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये ॥ ३२ ॥

 भगीरथरथानुगास्सन्तो गङ्गामन्वगमन् । एतेन स्वस्वपुरुषार्थप्रयोजना गङ्गासेवोपदिष्टा ॥ ३२ ॥


  1. धूतशापाः-ज.
  2. सुभास्वता-ङ. ज.
  3. रथानुगाम्-घ.