यतो भगीरथो राजा ततो गङ्गा यशस्विनी ।
जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी ॥ ३३ ॥
यतस्तत इति । यत्र तत्रेति यावत् ॥ ३३ ॥
ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ।
गङ्गा संप्लावयामास यज्ञवाटं महात्मनः ॥ ३४ ॥
अद्भुतकर्मण इति वक्ष्यमाणगङ्गोपसंहाराभिप्रायकम् ॥ ३४ ॥
तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्रुश्च राघव !
अपिबच्च जलं सर्वं गङ्गायाः [१]परमाद्भुतम् ॥ ३५ ॥
[२]तस्यावलेपनं, [३]प्राग्वत् । सर्वं जलं अपिबत् इति । अगस्त्यस्समुद्रजलमिव योगशक्त्येति शेषः । परमाद्भुतमिति । तदभवल्लोकस्येति शेषः ॥ ३५ ॥
ततो देवाः सगन्धर्वाः ऋषयश्च सुविस्मिताः ।
पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् ॥ ३६ ॥
पूजयन्ति । स्तोत्रादिद्वारेति शेषः ॥ ३६ ॥
गङ्गां [४]चानुनयन्ति स्म दुहितृत्वे महात्मनः ।
ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् पुनः ॥ ३७ ॥
दुहितृत्वे-दुहितृभावापत्तौ । शैलराजदुहिताऽहं कथमन्यस्य दुहिता स्यामिति विमतिवशादनुनयो गङ्गायाः । ततस्तुष्ट इति । गङ्गाया देवैस्स्वदुहितृत्वप्रापणादित्यर्थः ॥ ३७ ॥
[विसृज्य गङ्गां राजेन्द्रो ज्ञात्वा प्राप्तं भगीरथम् ।]