पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
336
[बालकाण्डः
गङ्गावतरणम्

 [पूजयित्वा यथान्यायं यज्ञवाटमुपागमत् ॥]
 तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ।

 यतः पीतां पुनश्चासृजत् तस्मादेव हेतोः जह्नुसुतेति समासवृत्त्या, जाह्नवीति तद्धितवृत्त्या च गङ्गा अपत्यतया जह्नोरुच्यते ॥

 जगाम च पुनर्गङ्गा भगीरथरथानुगा ॥ ३८ ॥
 सागरं चापि सम्प्राप्ता सा सरित्प्रवरा तदा ।
 रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः ॥ ३९ ॥

 तस्य कर्मणः सिद्ध्यर्थमिति । भगीरथस्य स्ववंश्योद्धारकर्म- सिद्ध्यर्थम् ॥ ३९ ॥

 भगीरथोऽपि राजर्षिः गङ्गामादाय यत्नतः ।
 पितामहान् भस्मकृतानपश्यद्दीनचेतनः ॥ ४० ॥

 यत्नत इति । यत्नाः प्रागुक्तलक्षणा: । भस्मत्वेन कृताः-भस्म कृताः, कपिलकोपवह्निनेति शेषः ॥ ४० ॥

 [१]अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् ।
 प्लावयत्, पूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम ! ॥ ४१ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे त्रिचत्वारिंशः सर्गः

 प्लावयत्-सेचयति स्म । ततः पूतपाप्मान इत्यादि । पर्व (४१) मानः सर्गः ॥ ४१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे त्रिचस्वारिंशः सर्गः


  1. एतदनन्तरं-ततस्तु गङ्गां प्रतिलभ्य राजा दिलीपसूनुर्गगनाच्च शङ्करात् । हृष्टोवतार्याशु नृपाच्च जह्नोः सम्भावयामास पितामहान्सः ॥ ४६ ॥ इत्यधिकं-ङ. झ.