पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/४०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४ सर्गः]
337
निनाय गङ्गां पातालं पुनः स तु भगीरथः

अथ चतुश्चत्वारिंशः सर्गः
[सगरपुत्रोद्धारः]

 स गत्वा सागरं राजा गङ्गयाऽनुगतस्तदा ।
 प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ॥ १ ॥

 अथ 'प्लावयत् पूतपाप्मानः' इति प्राक् सङ्क्षेपोक्तबीजार्थस्य विस्तरः-स गत्वेत्यादि । भस्मसात्कृताः-सर्वात्मना भस्मभावापत्तये सम्पादिताः । 'विभाषा साति कार्त्स्न्ये' इति सातिः ॥ १ ॥

 भस्मन्यथाप्लुते राम ! गङ्गायाः सलिलेन वै ।
 सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥ २ ॥

 सर्वलोकानां-सर्वभुवनानां सर्वभुवनवर्तिप्राणिनां च प्रभुः- असङ्कोचोपचारेण ईश्वरः ॥ २ ॥

 तारिता नरशार्दूल ! दिवं याताश्च देववत् ।
 षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ॥ ३ ॥

 तारिताः-प्रेत्यभावादुत्तारिताः देववत् ॥ ३ ॥

 सागरस्य जलं लोके यावत् स्थास्यति पार्थिव !
 सगरस्यात्मजास्तावत् स्वर्गे स्थास्यन्ति देववत् ॥ ४ ॥

 स्वर्गप्राप्तेर्विशेषं चानुगृह्णाति-सागरस्येत्यादि ॥ ४ ॥

 इयं हि दुहिता ज्येष्ठा तव गङ्गा भविष्यति ।
 त्वत्कृतेन च नाम्नाऽथ लोके स्थास्यति विश्रुता ॥ ५ ॥

 त्वत्कृतेनेति । त्वन्मूलत्रिपथगत्वधर्मकृतेनेति यावत् ॥ ५ ॥

 गङ्गा त्रिपथगा राजन् ! दिव्या भागीरथीति च ।
 त्रीन् पथो भावयन्तीति ततस्त्रिपथगा स्मृता ॥ ६ ॥