गगनाच्छङ्करशिरः, ततो धरणिमाश्रिता ।
व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् ॥ १५ ॥
तीव्रशब्दपुरस्कृतमित्यत्र हेतुः–गगनादित्यादि ॥ १५ ॥
मत्स्यकच्छपसङ्घैश्च शिशुमारगणैस्तदा ।
पतद्भिः पतितैश्चान्यैः व्यरोचत वसुन्धरा ॥ १६ ॥
"शिंशुमारस्त्वम्बुकपिः" इति वैजयन्ती । कप्याकारो जलचरविशेष इत्यर्थः । पतद्भिरिति वर्तमानप्रयोगः ॥ १६ ॥
ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तदा ।
व्यलोकयन्त ते तत्र गगनाद्गां गतां तथा ॥ १७ ॥
गगनात् गां गतामिति । रुद्रजटाकाशात् भुवमित्यर्थः ॥ १७ ॥
गजवरैरिति । चरन्त इति शेषः । गगनशब्देन मेधा लक्ष्यन्ते । पारिप्लवो यानभेदः (शिबिकादिभेदः) शिबिकादिरूपः कुबेरादेः ; तं गताः । द्वितीयासमासः ॥ १८ ॥
तदद्भुततमं लोके गङ्गापतनमुत्तमम् ।
दिदृक्षवो देवगणाः समीयुरमितौजसः ॥ १९ ॥
अमितौजसो देवगणाः इत्यनेन वस्वादय उच्यन्ते ॥ १९ ॥
सम्पतद्भिस्सुरगणैस्तेषामाभरणौजसा ।
शतादित्यमिवाभाति गगनं गततोयदम् ॥ २० ॥
उक्तविशेषणमूलमुपमानं-सम्पतद्भिरित्यादि ॥ २० ॥