गङ्गां अपश्यन् भगीरथः पुनश्च तत्र तत्प्राप्तिविषये हरमुद्दिश्य परमं तप आस्थितः ॥ ९ ॥
अनेन तोषितश्चासीत् अत्यर्थं रघुनन्दन !
विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति ॥ १० ॥
ततः-अनेन तपसा हरः तोषितश्चासीत् । ततस्तुष्टस्सन् हरो बिन्दुसरः प्रति, हिमवति ब्रह्मनिर्मितसरोविशेषो बिन्दुसरः, तत्प्रति विससर्ज ॥ १० ॥
तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ।
ह्लादिनी पावनी चैव नलिनी च तथाऽपरा ॥ ११ ॥
तस्यामित्यादिना त्रिपथगमनं भगीरथतपोहेतुकमुक्तम् ॥ ११ ॥
तिस्रः प्राचीं दिशं जग्मुः गङ्गाशिवजलाशुभाः ।
सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी ॥ १२ ॥
[१]तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः ।
सप्तमी चान्वगात्तासां भगीरथमथो नृपम् ॥ १३ ॥
एतेन त्रीन् पथः केन हेतुनेत्यस्योत्तरं जातमेव ॥ १३ ॥
भगीरथोऽपि राजर्षिः दिव्यं स्यन्दनमाश्रितः ।
प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् ॥ १४ ॥
अतः परं 'कर्मभिः कैस्समन्विता' इति बहुवचनदर्शित चरितभेदप्रश्नस्योत्तरम्-भगीरथोऽपीत्यादि । तं चापीति । प्रागुत्तरदिशीव दक्षिणाञ्जिगमिषुञ्चाप्यनुव्रजत् । अडभाव आर्षः ॥ १४ ॥
- ↑ एतदनन्तरं – 'तथैव चालिकानाम विश्रुता लोकपावनी ।' इत्यधिकं क्वचित्-ङ.