पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
270
[बालकाण्डः
कुशनाभकन्योपाख्यानम्

ब्रह्मपुत्रः-प्राजापत्यः, मन्वादिवत् क्षत्रक्षेत्रप्राधान्यात् क्षत्रियत्वम् ।'क्लिशूविबाघने', अक्लिष्टं–निर्बाधं व्रतं धर्मश्च यस्य स तथा ॥ १ ॥

 स महात्मा कुलीनायां [१]युक्तायां [२]सुगुणोल्बणान् ।
 वैदर्भ्यां जनयामास सदृशांश्चतुरस्सुतान् ॥ २ ॥
 कुशाम्बं कुशनाभं च [३]असूर्तरजसं वसुम् ।

 युक्तायां-अशेषोत्तमस्त्रीगुणयुक्तायाम् | असूर्तेति । 'प्रतूर्तसूर्त' इति निपातनम् विद्यते, सूर्तं-निस्सृतं रजो यस्य स तथा । 'अच्' इति योगविभागादच् ॥ २ ॥

 दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥ ३ ॥
 तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।
 क्रियतां पालनं पुत्राः ! धर्म प्राप्स्यथ पुष्कलम् ॥ ४ ॥

 पालनं–क्षत्रधर्मपरिपालनम् ॥ ३ ॥

 ऋषेस्तु वचनं श्रुत्वा चत्वारो लोकसम्मताः ।
 निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥ ५ ॥
 कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम् ।
 कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥ ६ ॥
 असूर्तरजसो राम ! धर्मारण्यं महीपतिः ।
 चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ॥ ७ ॥
 एषा वसुमती राम ! वसोस्तस्य महात्मनः ।
 एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥ ८ ॥

 एषेति । गिरिव्रजपर्यायेत्यर्थः । एषा इत्यपरोक्षनिर्देशः ॥


  1. जायायां-ङ.
  2. सुमहाबलान्-ज.
  3. आधूर्तरजसं-अमूर्तरजसं-ज. ङ.आवर्तरजसं-ङ.