पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२ सर्गः]
269
कुशनाभसुतोपाख्यां तत्रोवाच महामुनिः

 अथ रामो महातेजा विश्वामित्रं महामुनिम् ।
 पप्रच्छ नरशार्दूलः कौतूहलसमन्वितः ॥ २२ ॥

 भगवन् ! [१]किं नु देशोऽयं समृद्धवनशोभितः ।  श्रोतुमिच्छामि, भद्रं ते, वक्तुमर्हसि तत्त्वतः ॥ २३ ॥  अयं देश इति । शोणकूलप्रदेश इत्यर्थः । किं नु-किंवैभव इत्यर्थः ॥ २३ ॥

 चोदितो रामवाक्येन कथयामास सुव्रतः ।
 तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे एकत्रिंशः सर्गः

 निखिलमिति । वैभवमिति शेषः । खंवा (२४) मानः सर्गः ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे एकत्रिंशः सर्गः

अथ द्वात्रिंशः सर्गः
[कुशनाभकन्योपाख्यानम् ]

 ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः ।
 अक्लिष्टव्रत[२]र्धमश्च सज्जनप्रतिपूजकः ॥ १ ॥

 एवं शोणाकूलप्रदेशवैभवप्रश्ने, अयं देशो मद्वंश्यानामिति प्रतिपादनशेषतया निजान्वयः प्रकाश्यते–ब्रह्मयोनिरित्यादि । ब्रह्मयोनिः-


  1. कस्य-ङ.
  2. धर्मज्ञ-ज. ङ.