ब्रह्मपुत्रः-प्राजापत्यः, मन्वादिवत् क्षत्रक्षेत्रप्राधान्यात् क्षत्रियत्वम् ।'क्लिशूविबाघने', अक्लिष्टं–निर्बाधं व्रतं धर्मश्च यस्य स तथा ॥ १ ॥
युक्तायां-अशेषोत्तमस्त्रीगुणयुक्तायाम् | असूर्तेति । 'प्रतूर्तसूर्त' इति निपातनम् विद्यते, सूर्तं-निस्सृतं रजो यस्य स तथा । 'अच्' इति योगविभागादच् ॥ २ ॥
दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥ ३ ॥
तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।
क्रियतां पालनं पुत्राः ! धर्म प्राप्स्यथ पुष्कलम् ॥ ४ ॥
पालनं–क्षत्रधर्मपरिपालनम् ॥ ३ ॥
ऋषेस्तु वचनं श्रुत्वा चत्वारो लोकसम्मताः ।
निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥ ५ ॥
कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम् ।
कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥ ६ ॥
असूर्तरजसो राम ! धर्मारण्यं महीपतिः ।
चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ॥ ७ ॥
एषा वसुमती राम ! वसोस्तस्य महात्मनः ।
एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥ ८ ॥
एषेति । गिरिव्रजपर्यायेत्यर्थः । एषा इत्यपरोक्षनिर्देशः ॥