पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२ सर्गः]
271
यथा च वायुना कन्याः कुशनाभस्य पीडिताः

 सुमागधी नदी रम्या मगधन् विश्रुताऽऽययौ ।
 पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥ ९ ॥

 सुमागाधी-तत्संज्ञा । आययौ इति पदम् ॥ ९ ॥

 सैषा हि मागधी राम ! वसोस्तस्य महात्मनः ।
 पूर्वाभिचरिता राम ! सुक्षेत्रा सस्यमालिनी ॥ १० ॥

 हे राम एषा मागधी-मगधादागतत्वेन तथासंज्ञा, एषा शोणा एतद्देशश्च मद्वंश्यस्य वसोर्भवति । सा-पूर्वां दिशमभि चरितं-गमनं यस्यास्सा तथा पूर्ववाहिनीति यावत् । सुक्षेत्रेति उभयपार्श्वयोरिति शेषः ॥ १० ॥ -

 कुशानाभस्तु राजर्षिः कन्याशतमनुत्तमम् ।
 जनयामास धर्मात्मा घृताच्यां रघुनन्दन ! ॥ १३ ॥

 घृताच्यां-अप्सरस्त्रियाम् ॥ ११ ॥

 तास्तु यौवनशालिन्यो रूपवत्यः स्वलङ्कृताः ।
 उद्यानभूमिमागम्य प्रावृषीव शतह्नदाः ॥ १२ ॥
 गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च सर्वशः ।
 आमोदं परमं जग्मुर्वराभरणभूषिताः ॥ १३ ॥
 अथ ताश्चारुसर्वाङ्गयो रूपेणाप्रतिमा भुवि ।
 उद्यानभूमिमागम्य तारा इव घनान्तरे ॥ १४ ॥

 आमोदं-सन्तोषम् । उद्यानभूमिमागम्य धनान्तरे-मेघमध्ये - तारा:-तारका इव रेजुः ॥ १३-१४ ॥

 ताः सर्वगुणसम्पन्ना रूपयौवनसंयुताः ।
 दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥ १५ ॥