पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
272
[बालकाण्डः
कुशनाभकन्योपाख्यानम्

 अहं वः कामये सर्वा भार्या मम भविष्यथ ।
 मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥ १६ ॥

 वायोर्वशीकरणार्थवादः-मानुषस्त्यज्यतामित्यादि । यदा भविष्यथ-तदा मानुष इति योज्यम् ॥ १६ ॥

 चलं हि यौवनं नित्यं मानुषेषु विशेषतः ।
 अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥ १७ ॥
 तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः ।
 अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥ १८ ॥

 वायोर्वाक्यमपहास्येति । 'तत्करोति' इति ण्यन्ताल्ल्यप् , अपहासं कृत्वा ॥ १८ ॥

 अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम !
 प्रभावज्ञाः स्म ते सर्वाः किमस्मानवमन्यसे ॥ १९ ॥

 सर्वाः वयं ते प्रभावज्ञाः स्म, स्येत्यव्ययमिति प्रागेवोक्तम् । त्वं चास्मत्प्रभावज्ञः–किमस्मानवमन्यसे ॥ १९ ॥

 कुशनाभसुताः सर्वाः समर्थास्त्वां सुरोत्तम !
 स्थानाच्च्यावयितुं देवं, रक्षामस्तु तपो वयम् ॥ २० ॥

 को भवतीनां प्रभाव इत्यत-कुशेत्यादि । यस्माद्राजर्षेः कुशनाभस्य सर्वा वयं सुताः, अतः त्वां देवमपि स्थानात्-वायुपदात्-च्यावयितुं समर्था एव । अपि च सर्वा वयं तु तपः-अक्षतयोनित्व-रूपकन्याधर्मं रक्षामः ॥ २० ॥