पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२ सर्गः]
273
शीलं स्वकीयं रक्षन्त्यः न बिभ्युरमरादपि

 [१]मा भूत् स कालो दुर्मेधः ! पितरं सत्यवादिनम् ।
 नावमन्यस्व, धर्मेण स्वयं वरमुपास्महे ॥ २१ ॥

 हे दुर्मेधः ! स कालः-मृत्युस्ते मा भूत् । धर्मेण स्वयमिति । पित्रा स्वयं-स्वेच्छया क्रियमाणेन कन्यादानरूपेण यो वर आयाति तं वरमुपास्महे । वर्तमानसामीप्ये लट् ॥ २१ ॥

 पिता हि प्रभुरस्माकं दैवतं परमं हि नः ।
 यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥ २२ ॥

 अयमेवार्थः स्पष्टं व्याख्यायते-पिता हीत्यादि ॥ २२ ॥

 तासां तद्वचनं श्रुत्वा वायुः परमकोपनः ।
 [२]प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥ २३ ॥
 ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् ।
 प्रापतन् भुवि संभ्रान्ताः सलज्जाः साधुलोचनाः ॥ २४ ॥

 सलज्जा इति । अन्याय्यपतिप्रसङ्गतस्सलज्जाः ॥ २४ ॥

 स च ता दयिता दीनाः कन्याः परमशोभनाः ।
 दृष्ट्वा भग्नास्तदा राजा संभ्रान्त इदमब्रवीत् ॥ २५ ॥

 संभ्रान्तः- पर्याकुलचित्तः ॥ २५ ॥


  1. यत्र काले पितरमवमन्य-अपमानविषय कृत्वा स्वधर्मेण कामेन स्वयं वरमुपास्महे,आत्मना स्वातन्त्रयेण वयं वरमंगीकुर्मः स कालः कदाचिदपि माभूत्-ति.
  2. एतदनंतरं-अरत्रिमात्राकृतयो भग्नदर्पा भयार्दिताः । इदमधिकम् -ङ.