पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
274
[बालकाण्डः
कुशनाभकन्यापरिणयः

 किमिदं कथ्यतां पुत्र्यः ! को धर्ममवमन्यते ।
 [१]कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ ॥ २६ ॥

 को धर्ममवमन्यत इति । बलात्कारं करोतीति यावत् ॥ २६ ॥

 एवं राजा विनिश्वस्य [२]समाधिमकरोत् ततः ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्वात्रिंशः सर्गः

 एवमिति । पृष्ट्वेति शेषः । समाधिमकरोदिति । किं वक्ष्यन्तीति तद्वचनश्रवणैकाग्रचित्तोऽभूदित्यर्थः । इतर (२६ १/२)मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे द्वात्रिंशः सर्गः


अथ त्रयस्त्रिंशः सर्गः
[कुशनाभकन्यापरिणयः]

 तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः ।
 शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥ १ ॥

 अथ पृष्टप्रत्युत्तरतदुचितोत्तरव्यापारः-तस्येत्यादि ॥ १ ॥

 वायुः सर्वात्मको राजन् ! प्रधर्षयितुमिच्छति ।
 अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥ २ ॥

 प्रधर्षयितुं-अभिभवितुं । अशुभं-बलात्काररूपं नावेक्षते स्म ॥


  1. एतदनन्तरं-श्रोतुमिच्छामि तं पुत्र्यो यस्येदं कर्म गर्हितम् ॥ इदमधिकम् -ङ.
  2. समाधिं संदधे-इति सर्वत्र पाठः,