पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७ सर्गः]
241
सर्वसङ्ग्रहणं येषां दैवतैरपि दुष्करम्

 गान्धर्वमस्त्रं दयितं [१]मानवं नाम नामतः ।
 प्रस्वापनप्रशमने दद्मि सौरं च राघव ! ॥ १४ ॥

 ददामीत्यत्राकारलोपे दद्मीति छान्दसः ॥ १४ ॥

 [२]वर्षणं शोषणं चैव सन्तापनविलापने ।
 [३]मर्दनं चैव दुर्धर्षं कन्दर्पदयितं तथा ॥ १५ ॥

 विलापयति परिदेवयतीति विलापनम् । मर्दयतीति मर्दनम् ॥

 पैशाचमस्त्रं दयितं मोहनं नाम नामतः ।
 प्रतीच्छ नरशादूल ! राजपुत्र ! महायशः ! ॥ १६ ॥

 प्रतीच्छ-गृहाण ॥ १६ ॥

 तामसं नरशार्दूल ! सौमनं च महाबल !
 संवर्तं चैव दुर्धर्षं मौसलं नाम नामतः ॥ १७ ॥

 प्रागुक्तासुरमुसलास्त्रादन्यत् मौसलम् ॥ १७ ॥

 सत्यमस्त्रं महाबाहो तथा मायाधरं परम् ।
 [४]घोरं तेजःप्रभं नाम परतेजोऽपकर्षणम् ॥ १८ ॥
 सौम्यास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुकामदम् ।
 दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥ १९ ॥

 शतेषु मानवमित्यन्वयः ॥ १९ ॥

 एतान् राम ! महाबाहो ! कामरूपान् महाबलान् ।
 गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ! ॥ २० ॥


  1. मोहनं नाम, मानवास्त्रं च ङ.
  2. दर्पणं-ङ.
  3. मदनं-ङ.
  4. सौरं-ज.