पुटमेतत् सुपुष्टितम्
२७ सर्गः]
241
सर्वसङ्ग्रहणं येषां दैवतैरपि दुष्करम्
गान्धर्वमस्त्रं दयितं [१]मानवं नाम नामतः ।
प्रस्वापनप्रशमने दद्मि सौरं च राघव ! ॥ १४ ॥
ददामीत्यत्राकारलोपे दद्मीति छान्दसः ॥ १४ ॥
विलापयति परिदेवयतीति विलापनम् । मर्दयतीति मर्दनम् ॥
पैशाचमस्त्रं दयितं मोहनं नाम नामतः ।
प्रतीच्छ नरशादूल ! राजपुत्र ! महायशः ! ॥ १६ ॥
प्रतीच्छ-गृहाण ॥ १६ ॥
तामसं नरशार्दूल ! सौमनं च महाबल !
संवर्तं चैव दुर्धर्षं मौसलं नाम नामतः ॥ १७ ॥
प्रागुक्तासुरमुसलास्त्रादन्यत् मौसलम् ॥ १७ ॥
सत्यमस्त्रं महाबाहो तथा मायाधरं परम् ।
[४]घोरं तेजःप्रभं नाम परतेजोऽपकर्षणम् ॥ १८ ॥
सौम्यास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुकामदम् ।
दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥ १९ ॥
शतेषु मानवमित्यन्वयः ॥ १९ ॥
एतान् राम ! महाबाहो ! कामरूपान् महाबलान् ।
गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ! ॥ २० ॥