स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा
ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ॥ २१ ॥
नन्वस्त्राणि दास्यामीति प्रतिश्रुत्य तानि च अनुक्रम्यान्ते मन्त्रग्रामं ददावित्युच्यते । उपसंहारेऽस्त्राणि ददावित्येवान्ते वक्तव्यत्वात् । नैतत्, अनुक्रान्तदिव्यास्त्राणां ब्रह्मपुत्राणां देवतात्वेन मन्त्रैकसहजात्मानः भामण्डलवपुष्मन्तो मण्डलानुग्रहायेति चिद्रहस्यात्, अस्त्रदेवानां स्वस्वमन्त्रस्यैव सहजमूर्तित्वात्, भामण्डलवपुर्ग्रहस्योपासकानुग्रहोपाधिमूलत्वेनासहजत्वादशक्यदानाच्च भद्रतरमुक्तम्–मन्त्रग्रामं ददाविति । [१]ननु 'मन्त्रग्रामं गृहाण त्वम्' इति बलातिबलादानप्रसङ्गे उक्तः । पुनरिह कुतो मन्त्रग्रामदानं ? सत्यमुक्तम्–गृहाणेति, न तु दत्तं, तत्कालोपयोगिबलातिबलामन्त्रस्यैव दानात् ॥ २१ ॥
सर्वसङ्ग्रहणं येषां दैवतैरपि दुर्लभम् ।
तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥ २२ ॥
सर्वेत्यादि । येषां उक्तदिव्यास्त्राणां सर्वसङ्ग्रहणं सर्वेषामुक्तानामेकेन सङ्ग्रहणं कर्तुम् दैवतैरपि दुर्लभं-दुष्करमिति यावत् । कश्चिद्देवोऽपि किञ्चिदेवात्रत्येषु जानाति, न सर्वम् । एवमनेकदुष्प्रापाणि तानि सर्वाणि अस्त्राणि एकस्मै रामाय तदा विप्रः-विश्वामित्रो न्यवेदयत्–दत्तवान् ॥ २२ ॥
जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ।
उपतस्थुर्महार्हाणि सर्वाण्यत्राणि राघवम् ॥ २३ ॥
एवं मन्त्रं दत्त्वा, मन्त्रमिव मन्त्रदैवतान्यपि शिष्यानुवर्तनाय योजयितुं तानि स्मृत्वा जपतो विश्वामित्रस्य मुनेः आज्ञया गृहीत-
- ↑ इयं व्याख्या तिलकेऽनूद्य दूषिता ।