भामण्डलवपुष्मन्ति सन्ति उपतस्थुः । तत उपस्थितानि विश्वामित्रनियोजितरामसेवकानि तानि सर्वाण्यस्त्राणि महात्मानं राघवं चोपतस्थुः ॥
ऊचुश्च मुदिताः सर्वे रामं प्राञ्जलयस्तदा ।
इमे स्म परमोदाराः किङ्करास्तव राघव ! ॥ २४ ॥
[१]यद्यदिच्छसि, भद्रं ते, तत्सर्वं करवाम वै ।
उपस्थाय, सर्वे अस्त्रदेवताः प्राञ्जलयः साक्षात्स्वाधीनदेवताः ब्रह्मरामसम्बन्धेन मुदिताः सत्यः तं ऊचुः । किमित्यतः—इम इत्यादि । किङ्कराः–नियोज्याः–अङ्गीकृतकैङ्कर्याः ॥ २४ ॥
ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः ॥ २५ ॥
प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।
मानसा मे [२]भविष्यध्वमिति तानभ्यचोदयत् ॥ २६ ॥
तान् काकुत्स्थः पाणिना समालभ्य-उपस्पृश्य, स्त्रियं पतिरिव, प्रतिगृह्य च-स्वीकृत्य च तान् मानसा भविष्यध्वमित्यभ्यचोदयत् । मनस्स्मृतिकालोपस्थानाः मानसाः, दार्षदादिवत् शैषिकोऽण् । भविष्यध्वमिति व्यत्ययात्तङ् ॥ २६ ॥
ततः प्रीतमना रामो विश्वामित्रं महामुनिम् ।
अभिवाद्य महातेजा गमनायोपचक्रमे ॥ २७ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तविंशः सर्गः
सरो(२७)मानः सर्गः ॥ २७ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तविंशः सर्गः