पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
244
[बालकाण्ड:
अस्त्रसंहारग्रहणम्

अथ अष्टाविंशः सर्गः

[अस्त्रसंहारग्रहणम् ]

 प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनश्शुचिः ।
 गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥ १ ॥

 अथावगतप्रयोगास्त्राणां उपसंहारापरिज्ञाने पुनः प्रयोगानर्हत्वेनाप्राप्तप्रायत्वात् परमचतुरेण रामेणावगतास्त्रोपसंहारे च पृष्टे तमुपदिश्य तच्चातुरीस्वावगतसर्वास्त्रपात्रत्वायान्यानपि दिव्यास्त्राण्यसङ्कोचोपचारेण-सर्वास्त्रविदुषे रामायोपदिशति । प्रतिगृह्येत्यादि ॥ १ ॥

 गृहीतास्त्रोऽस्मि भगवन् ! दुराधर्षः सुरासुरैः ।
 अस्त्राणां त्वहमिच्छामि संहारं मुनिपुङ्गव ! ॥ २ ॥

 गृहीतास्त्रोऽस्मीति। गृहीतास्त्रप्रयोगमार्गोऽस्मीत्यर्थः ॥ २ ॥

 एवं ब्रुवति काकुत्स्थे विश्वामित्रो महायशाः ।
 संहारं व्याजहाराथ धृतिमान् सुव्रतश्शुचिः ॥ ३ ॥

 संहारमिति। तत्तदस्त्रमूलमन्त्रवर्तितत्तत्संहारमार्गमित्यर्थः ॥ ३ ॥

 [१]सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च ।
 प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ॥ ४ ॥

 अथ उपदिष्टास्त्रसंहारमार्गेपिदेशानन्तरं धृतिमत्त्वादिगुणक ऋषिः सत्यवदादीन्यन्यान्यपि ददाति-सत्यवन्तमित्यादि । ददामीति सर्वत्रान्वयः ॥ ४ ॥

 लक्षाक्षविषमौ चैव दृढनाभसुनाभकौ ।
 दशाक्षशतवक्रौ च दशशीर्षशतोदरौ ॥ ५ ॥


  1. सत्यवदादीन्युपसंहाराणां नामानि । सत्यवन्तमित्यादि सप्तश्लोक्येकान्वया ॥ -गो.