पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
240
[बालकाण्ड:
सर्वास्त्रग्रहणम्

 धर्मपाशमहं राम ! कालपाशं तथैव च ।
 पाशं वारुणमस्त्रं च ददाम्यहमनुत्तमम् ॥ ८ ॥

 अस्त्रं चेति । वारुणास्त्रं चेत्यर्थः ॥ ८ ॥

 अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ! |
 ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ॥ ९ ॥

 अशन्योर्द्वैतमेव प्रदर्श्यते-शुष्कार्द्रे इति । पिनाकिन इदं पैनाकम् ॥ ९ ॥

 आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ।
 वायव्यं [१] प्रथमं नाम ददामि च, तवानघ ! ।। १० ।।

 नामतः शिखरं नाम-शिखरमिति प्रसिद्धम् अग्नेः दयितं-इष्टम् आग्नेयं च प्रथमं नाम-प्रथमसंज्ञम् ॥ १०॥

 अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ।
 शक्तिद्वयं च काकुत्स्थ ! ददामि तव राघव ! ॥ ११ ॥
 कङ्कालं मुसलं घोरं कापालमथ [२]कङ्कणम् ।
 [३]धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः ॥ १२ ॥

 धारयन्त्यसुरा यानीति । कङ्कालादीनीति यावत् ॥ १२ ॥

 वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ।
 असिरत्नं महाबाहो ! ददामि नृवरात्मज ! ॥ १३ ॥

 नन्दनं नाम असिरत्नमित्यन्वयः ॥ १३ ॥


  1. प्रथनं, मथनं-ङ.
  2. किङ्किणीम्-ङ.
  3. वधार्थे रक्षसां-ज.