पुटमेतत् सुपुष्टितम्
240
[बालकाण्ड:
सर्वास्त्रग्रहणम्
धर्मपाशमहं राम ! कालपाशं तथैव च ।
पाशं वारुणमस्त्रं च ददाम्यहमनुत्तमम् ॥ ८ ॥
अस्त्रं चेति । वारुणास्त्रं चेत्यर्थः ॥ ८ ॥
अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ! |
ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ॥ ९ ॥
अशन्योर्द्वैतमेव प्रदर्श्यते-शुष्कार्द्रे इति । पिनाकिन इदं पैनाकम् ॥ ९ ॥
आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ।
वायव्यं [१] प्रथमं नाम ददामि च, तवानघ ! ।। १० ।।
नामतः शिखरं नाम-शिखरमिति प्रसिद्धम् अग्नेः दयितं-इष्टम् आग्नेयं च प्रथमं नाम-प्रथमसंज्ञम् ॥ १०॥
धारयन्त्यसुरा यानीति । कङ्कालादीनीति यावत् ॥ १२ ॥
वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ।
असिरत्नं महाबाहो ! ददामि नृवरात्मज ! ॥ १३ ॥
नन्दनं नाम असिरत्नमित्यन्वयः ॥ १३ ॥