पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७ सर्गः]
239
राघवाय ततः प्रीतो ददावस्त्राणि कौशिकः

 परितुष्टोऽस्मि भद्रं ते राजपुत्र ! महायशः ।
 प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥ २ ॥

 महायश इति । सम्बुद्धित्वान्न दीर्घः । सर्वशः-सर्वाणीति यावत् ॥ २ ॥

 देवासुरगणान् वाऽपि सगन्धर्वोरगानपि ।
 यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥ ३

 आजौ प्रसह्य-बलात्कारेण संहारेण वा जयिष्यसि, स्वार्थे णिः, जेष्यसि । यदि वा दया, तदा वशीकृत्य संमोहनास्त्रादिना जयिष्यसि ॥ ३ ॥

 तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः ।
 दण्डचक्रं महदिव्यं तव दास्यामि राघव ! ॥ ४ ॥

 दिव्यास्त्राणामनुक्रमः–दण्डचक्रमित्यादि । दण्डचक्रादयश्चक्रभेदाः ॥ ४ ॥

 [१]धर्मचक्रं ततो वीर ! कालचक्रं तथैव च ।
 वज्रमस्त्रं [२]नरश्रेष्ठ ! शैवं [३].शूलवरं तथा ॥ ५ ॥
 अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ! ।
 ददामि ते महाबाहो ! ब्राह्ममस्त्रमनुत्तमम् ॥ ६॥

 शूलवरं-शूलवरनामकम् । ब्रह्माशीरोऽप्यन्यत् । ब्रह्मास्त्रमप्यन्यत् ॥

 गदे द्वे चैव काकुत्स्थ ! मोदकी शिखरी उभे ।
 प्रदीप्ते नरशार्दूल ! प्रयच्छामि नृपात्मज ! ॥ ७ ॥

 मोदकी शिखरीसंज्ञे ये द्वे गदे स्तः, ते उभे च दास्यामि ॥ ७ ॥


  1. एतदनन्तरं-विष्णुचक्रं तथाऽत्युग्रं ऐन्द्रमस्त्रं तथैव च-अधिकं ङ.
  2. वरश्रेष्ठ-ज्ञ.
  3. शूलवतम्-ङ. ज