रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥ ३५ ॥
ताटकावधतोषितः-प्राप्तसंतोषः । रामेणेति शेषः । अत एव रामाय प्रीतः-प्रसन्नः ॥
निहत्य तां यक्षसुतां स रामः
प्रशस्यमानः सुरसिद्धसङ्घैः ।
उवास तस्मिन् मुनिना सहैव
प्रभातवेलां प्रतिबोध्यमानः ॥ ३६ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे षड्विंशः सर्गः
प्रभातवेलां प्रतिबोध्यमान इति । विश्वामित्रेणेति शेषः । अस्तग (३६ १/२) मानः सर्गः ॥ ३६ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षड्विंशः सर्गः
अथ सप्तविंशः सर्गः
[ सर्वास्त्रग्रहणम् ]
अथ तां रजनीमुष्य विश्वामित्रो महायशाः ।
[१]प्रहस्य राघवं वाक्यं उवाच मधुराक्षरम् ॥ १ ॥
अथ यथादेवतानियोगं विश्वामित्रानुष्ठानम् । अथ तामित्यादि । उष्येति । समासे ल्यप्, 'क्त्वापि छन्दसि' इत्यपिशब्दात् । राममुखदर्शनसंतोषजो मुख[२]विकासः प्रहासः, सन्तुष्टो मन्दस्मितं कृत्वेति यावत् ॥ १ ॥