पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६ सर्गः ]
237
अस्तुवन् अतिसंतुष्टाः रामं देवर्षयस्तदा

मदीयोऽयमाप्ततमाश्शिष्य इति स्नेहमूलं व्यापार प्रवर्तयेति यावत् ॥ २८ ॥

 प्रजापतेः [१]कृशाश्वस्य पुत्रान् सत्यपराक्रमान् ।
 तपोबलभृतो ब्रह्मन् ! राघवाय निवेदय ॥ २९ ॥

 कोऽसौ तथा प्रवर्तनीयव्यापारः? इत्यतः-प्रजापतेरित्यादि ॥ २९ ॥

 पात्रभूतश्च ते ब्रह्मन् ! तवानुगमने धृतः ।
 कर्तव्यं च महत्कार्यं सुराणां राजसूनुना ॥ ३० ॥

 अनुगमने-शुश्रूषणे । धृतः-स्थिरनिश्चयः ॥ ३० ॥

 एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा यथाऽऽगतम् ।
 विश्वामित्रं [२]पुरस्कृत्य, ततः सन्ध्या प्रवर्तते ॥ ३१ ॥

 पुरस्कृत्य-पूजयित्वा जग्मुरिति योजना । सन्ध्या-सायंसन्ध्या प्रवर्तते स्म ॥ ३१ ॥

 ततो मुनिवरः प्रीतः ताटकावधतोषितः ।
 मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् ॥ ३२ ॥
 इहाद्य रजनीं राम ! वसेम शुभदर्शन !
 श्वः प्रभाते गमिष्यामः तदाश्रमपदं मम ॥ ३३ ॥
 विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः ।
 उवास रजनीं तत्र ताटकाया वने सुखम् ॥ ३४ ॥
 [३]मुक्तशापं वनं तच्च तस्मिन्नेव तदाऽहनि ।

 मुक्तशापं-अपगतशापजताटकोपद्रवम् ॥ ३४ ॥


  1. भृशाश्वस्य-ज.
  2. पूजयन्त:-ज. पूजयित्वा-ङ.
  3. एतदनन्तरं-चम्पकाशो. कपुन्नागमल्लिकाद्यैस्सुशोभितम् । चूतैश्च पनसैः पूगैर्नारिकेलैश्च शोभितम् । वापीकूपतटाकैश्च दीर्घिकाभिरलङ्कृतम् । मल्लिकाहेमकूटैश्च मण्टपैरुपशोभितम्-इदमधिकम्-ङ.