पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/३०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
236
[बालकाण्डः
ताटकावधः

 अश्मवृष्ट्येति । करण तृतीया । शब्दमात्रेण लक्ष्यं सम्यक् निश्चित्य वेधी-शब्दवेधी, तादृशं स्वीयं सामर्थ्यं दर्शयन् भूत्वा तां यक्षीं रुरोध ॥ २३ ॥

 सा रुद्धा शरजालेन मायाबलसमन्विता ।
 अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेदुषी ॥ २४ ॥

 शरजालेनेति । शब्दवेधिऽशरजालेनेति यावत् । अभिदुद्रावेति । अन्तर्धानस्याप्रयोजनत्वात् तद्धित्वेति शेषः ॥ २४ ॥

 तामापतन्तीं वेगेन विक्रान्तामशनीमिव ।
 शरेणोरसि विव्याथ, सा पपात, ममार च ॥ २५ ॥

 अशनीमिवेति । 'सर्वतोऽक्तिन्नर्थादित्येके' इति धूळीपाल्यादिवत् ङीष् ॥ २५ ॥

 तां हतां भीमसङ्काशां [१] सुरपतिस्तदा ।
 साधु साध्विति काकुत्स्थं, सुराश्च समपूजयन् ॥ २६ ॥

 भीमसङ्काशां-भीमरूपाम् ॥ २६॥

 उवाच परमप्रीतः सहस्राक्षः पुरन्दरः ।
 सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन् ॥ २७ ॥

 सहस्राक्षो विश्वामित्रमुवाच इति योजना ॥ २७ ॥

 मुने कौशिक ! भद्रं ते सेन्द्राः सर्वे मरुद्गणाः ।
 तोषिताः कर्मणाऽनेन स्नेहं दर्शय राघवे ॥ २८ ॥

 सहस्राक्षादयः किमुक्तततः‌-मुने इत्यादि । अनेन कर्मणेति । त्वत्प्रवर्तितताटकावधकर्मणेति यावत् । स्नेहं दर्शयेति ।


  1. दृष्ट्वासुरपतिः सुराश्च समपूजयन्-इत्यन्वयः ।