मदीयोऽयमाप्ततमाश्शिष्य इति स्नेहमूलं व्यापार प्रवर्तयेति यावत् ॥ २८ ॥
प्रजापतेः [१]कृशाश्वस्य पुत्रान् सत्यपराक्रमान् ।
तपोबलभृतो ब्रह्मन् ! राघवाय निवेदय ॥ २९ ॥
कोऽसौ तथा प्रवर्तनीयव्यापारः? इत्यतः-प्रजापतेरित्यादि ॥ २९ ॥
पात्रभूतश्च ते ब्रह्मन् ! तवानुगमने धृतः ।
कर्तव्यं च महत्कार्यं सुराणां राजसूनुना ॥ ३० ॥
अनुगमने-शुश्रूषणे । धृतः-स्थिरनिश्चयः ॥ ३० ॥
एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा यथाऽऽगतम् ।
विश्वामित्रं [२]पुरस्कृत्य, ततः सन्ध्या प्रवर्तते ॥ ३१ ॥
पुरस्कृत्य-पूजयित्वा जग्मुरिति योजना । सन्ध्या-सायंसन्ध्या प्रवर्तते स्म ॥ ३१ ॥
ततो मुनिवरः प्रीतः ताटकावधतोषितः ।
मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् ॥ ३२ ॥
इहाद्य रजनीं राम ! वसेम शुभदर्शन !
श्वः प्रभाते गमिष्यामः तदाश्रमपदं मम ॥ ३३ ॥
विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः ।
उवास रजनीं तत्र ताटकाया वने सुखम् ॥ ३४ ॥
[३]मुक्तशापं वनं तच्च तस्मिन्नेव तदाऽहनि ।
मुक्तशापं-अपगतशापजताटकोपद्रवम् ॥ ३४ ॥