पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
182
[बालकाण्ड:
श्रीरामाद्यवतारः

 पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः ॥ १४ ॥
 सार्पे जातौ च सौमित्री कुलीरेऽभ्युदिते रवौ ।

 [१]सार्पः आश्लेषः । सौमित्रीति द्विवचनेन यमत्वं सूच्यते । बाह्लादित्वादिञ् ॥ १४ ॥

 राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे [२]पृथक् ॥ १५ ॥
 गुणवन्तोऽनुरूपाश्च रुच्या *प्रोष्ठपदोपमाः ।

 पृथक् गुणवन्त इति । प्रत्येकमनन्यसाधारणगुणवन्त इति यावत् । अनुरूपाः-ज्येष्ठकनिष्ठत्वादि-रूपव्यवहारवन्तः । रुच्या चतुर्ध्वाकारजशोभया-पूर्वोत्तरप्रोष्ठपदाश्चत्वारः, अत एव तदुपमात्वम् ॥ १५ ॥

 जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः ॥ १६ ॥
 देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।

 जगुरित्यादि । रामाद्युत्पत्तिकाल इति शेषः ॥ १६ ॥

 उत्सवश्च महानासीदयोध्यायां जनाकुलः ॥ १७ ॥
 रथ्याश्च जनसम्बाधा नटनर्तकसकुलाः ।
 [३]गायनैश्च विराविण्यो वादनैश्च तथाऽपरैः ॥ १८ ॥

 गायनैः । गायतेः 'ण्युट् च' इति कर्तरि ण्युट्, गायकैरिति यावत् । तथाऽपरैर्वादनैश्च विराविण्यो रथ्याः आसन्निति योजना ॥ १८ ॥

 प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् ।
 ब्राह्मणेभ्यो ददौ वित्तं गोदानानि सहस्रशः ॥ १९ ॥


  1. सर्पे आश्लेषे-ग.
  2. एकन्वेऽपि पृथग्वर्तमानः । एकस्य चतुर्भावस्थाने दृष्टान्तमाह-प्रोष्ठेति ॥ गो.
  3. गायकैः-ङ. एतदनन्तरं-विरेजुर्विपुलास्तत्र सर्वरत्नसमन्विताः-अधिकं-ङ.