पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८ सर्गः]
183
उभौ लक्ष्मणशत्रुघ्नौ सुमित्राऽजनयत् ततः

 प्रदेयाः-पारितोषिकाः । सूताः-पौराणिकाः । मागधाः-वंशा-वळीकीर्तकाः । वन्दिनः-स्तुतिपाठकाः । वन्दिनामिति सम्बन्धसामान्ये षष्ठी । सूतादिसम्बन्धि यद्देयं पारितोषिकं तत्तेभ्यो ददाविति योजना ॥ १९ ॥

 अतीत्यैकादशाहं तु नामकर्म तथाऽकरोत् ।

 एकादशमासन्नं अहः यस्य तदेकादशाहम्, द्वादशाहमित्यन्यपदार्थः । क्षत्रियस्य द्वादशाहं सूतकमिति स्मृतेरेवं व्याख्या । [१]इयमेव व्याख्या तु शब्दद्योतिता । नामकर्म-नामकरणम् अकरोत् । पुत्राणां यथाकृतजातकर्मणामिति शेषः ।

 ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् ॥ २० ॥
 सौमित्री लक्ष्मणमिति शत्रुघ्नमपरं तथा ।

 कस्य किन्नामेत्यतः-ज्येष्ठमित्यादि । राममिति । रामनामकमिति यावत् । तथाऽग्रेऽपि । सौमित्री- सुमित्रापुत्रौ ॥ २० ॥

 वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा ॥ २१ ॥

 ननु कथं राज्ञो नामकरणादावधिकार इत्यतः-वसिष्ठ इत्यादि । तथा च पुरोहितद्वारा अकरोदित्युक्तं भवति ॥ २१ ॥

 ब्राह्मणान् भोजयामास पौरान् जानपदानपि ।
 अददद्ब्राह्मणानां च रत्नौघममितं बहु ॥ २२ ॥

 ब्राह्मणानामदददिति । एवमादौ सर्वत्र सम्बन्धसामान्ये षष्ठी । अमितं रत्नौघं बह्वदददिति । बहुप्रकारवदिति क्रियाविशेषणम् । दानस्य बहुप्रकाराः हेमाद्यादिस्मृतिप्रसिद्धाः ॥ २२ ॥


  1. लक्ष्मणजन्मदिनापेक्षया एकादशाहत्वं । रामजन्मदिनापेक्षया तु द्वादशदिनं तत् ! प्रथमसूतकेनैवेतरेषामपि निवृत्तेस्तथा कथनमिति गोविन्दराजः ॥