पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः ॥ १४ ॥
सार्पे जातौ च सौमित्री कुलीरेऽभ्युदिते रवौ ।
[१]सार्पः आश्लेषः । सौमित्रीति द्विवचनेन यमत्वं सूच्यते । बाह्लादित्वादिञ् ॥ १४ ॥
राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे [२]पृथक् ॥ १५ ॥
गुणवन्तोऽनुरूपाश्च रुच्या *प्रोष्ठपदोपमाः ।
पृथक् गुणवन्त इति । प्रत्येकमनन्यसाधारणगुणवन्त इति यावत् । अनुरूपाः-ज्येष्ठकनिष्ठत्वादि-रूपव्यवहारवन्तः । रुच्या चतुर्ध्वाकारजशोभया-पूर्वोत्तरप्रोष्ठपदाश्चत्वारः, अत एव तदुपमात्वम् ॥ १५ ॥
जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः ॥ १६ ॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ।
जगुरित्यादि । रामाद्युत्पत्तिकाल इति शेषः ॥ १६ ॥
उत्सवश्च महानासीदयोध्यायां जनाकुलः ॥ १७ ॥
रथ्याश्च जनसम्बाधा नटनर्तकसकुलाः ।
[३]गायनैश्च विराविण्यो वादनैश्च तथाऽपरैः ॥ १८ ॥
गायनैः । गायतेः 'ण्युट् च' इति कर्तरि ण्युट्, गायकैरिति यावत् । तथाऽपरैर्वादनैश्च विराविण्यो रथ्याः आसन्निति योजना ॥ १८ ॥
प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् ।
ब्राह्मणेभ्यो ददौ वित्तं गोदानानि सहस्रशः ॥ १९ ॥