पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८ सर्गः]
181
कौसल्याऽजनयत् रामं, कैकेयी भरतं ततः

द्यास्तिथयो द्वयोः' इति पुंस्त्वम्, नवमीतिथावित्यर्थः । अदितिदैवत्ये नक्षत्र इति । पुनर्वसुनक्षत्र इति यावत् । देवतान्तात्तादर्थ्ये यक् छान्दसः । स्वोच्चसंस्थेषु-स्वस्वोच्चस्थानगतेषु पञ्चसु ग्रहेषु-सूर्याङ्गार-कसौरि बृहस्पतिशुक्रेषु । सामान्यतो ग्रहाणामुच्चस्थानानि तु अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादि तुङ्गाः' इति । वाक्पतिः-बृहस्पतिः । इन्दुना सह प्रोद्यमान इति–पुनर्वसु नक्षत्रस्य कर्कटकराशित्वादेव इन्दुः तत्र । कर्कटकस्तु बृहस्तेरुच्चस्थानम् । सूर्योऽपि स्वोच्चे मेषे स्थितः । एवं मन्दाङ्गारकशुक्रास्तदानीं तुलामकरमीन[१]स्था इति ज्ञेयम् । राममिति । रमन्तेऽस्मिन् लोका इत्यधिकरणेघञ् । विष्णोरर्धमिति। विष्ण्वंशस्य पायसस्य प्रथमप्रविभागप्राधान्येन सिद्धम् । ऐक्ष्वाकस्य-दशरथस्य नन्दनम् । 'दाण्डिनायन' इत्यादिना उकारलोपः । वरः-श्रेष्ठः ॥ ११ ॥

 भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः ॥ १२ ॥
 साक्षाद्विष्णोचतुर्भागः सर्वैः समुदितो गुणैः ।

 चतुर्भाग इति । चतुरंशोपेतो भागः पायसार्धभागप्राधान्यसिद्धः ॥ १२ ॥

 अथ लक्ष्मणशत्रुघ्नौ सुमित्राऽजनयत् सुतौ ॥ १३ ॥
 [२]सर्वास्त्रकुशलौ वीरौ विष्णोरर्धसमन्वितौ ।

 अथ लक्ष्मणशत्रुघ्नाविति । पायसपूर्वापराधैकदेशसिद्धाविति शेषः । तदेवोक्तम्–विष्णोरर्धसमन्विताविति । प्रथमचरमार्धयोरर्धादर्धेति यावत् ॥ १३ ॥


  1. स्थाने–क, ख,
  2. सर्वार्थकुशलौ-ङ.