पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
180
[बालकाण्डः
श्रीरामाद्यवतारः

 शान्तया प्रययौ सार्धमृश्यशृङ्गस्सुपूजितः ।
 [१]अनुगम्यमानो राज्ञाऽथ सानुयात्रेण धीमता ॥ ६ ॥

 अनुगम्यमान इति ऋश्यशृङ्गविशेषणं । आर्षं गुरुलध्वक्षरवैषम्यम् ॥ ६॥

 एवं विसृज्य तान् सर्वान् राजा सम्पूर्णमानसः ।
 उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् ॥ ७ ॥

 एवं विसृज्येति। एवं द्विजैस्सह प्रविश्य तांश्च विसृज्येत्यर्थः ॥ ७ ॥

 ततो यज्ञे समाप्ते तु [२]ऋतूनां षट् समत्ययुः ।
 ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ॥ ८ ॥
 नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु ।
 ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह ॥ ९ ॥
 प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ।
 कौसल्याऽजनयद्रामं सर्वलक्षणसंयुतम् ॥ १० ॥
 [३]विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकनन्दनम् ।
 कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ॥ ११ ॥
 यथा वरेण देवानामदितिर्वज्रपाणिना ।

 द्वादश इति । 'तस्य पूरणे' इति डट् । चैत्रे मास इति। चैत्री पौर्णमास्यस्मिन् मास इति चैत्रः । 'साऽस्मिन् पौर्णमासीति' इति संज्ञायामण् । नवम्या संसृष्टं नावमिकम्, 'संसृष्टे' इति ठक् । 'तदा-


  1. अन्त्रीयमानो-ङ.
  2. ऋतूनामिति प्रथमाथें षष्ठी-ति.
  3. एतदनन्तरम्-लोहिताक्षं महाबाहुं रक्तोष्ठं दुन्दुभिस्वनम्-इदमधिकं-ङ. इति-ख.