पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८ सर्गः]
179
निर्वृत्ते तु क्रतौ, मासे द्वादशे, शुभवासरे

अथ अष्टादशः सर्गः

[श्रीरामाद्यवतारः, विश्वामित्रागमनं च]

 निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः ।
 प्रतिगृह्य सुरा भागान् प्रतिजग्मुर्यथागतम् ॥ १ ॥

 एवं [१]प्रासङ्गिकावयवदेवताः प्रसङ्गादुक्ता प्रकृतप्रधानदेवता प्रतिपाद्यते-निर्वृत्ते त्वित्यादि । 'पुत्रोत्पत्ति विचिन्तयन्' (श्लो. ७) इत्यन्तो वृत्तानुवादः । निर्वृत्ते–समाप्ते । हयमेध इति । स्वोपकार्य-पुत्रेष्टियुत इति शेषः ॥ १ ॥

 समाप्तदीक्षानियमः पत्नीगणसमन्वितः ।
 प्रविवेश पुरीं राजा सभृत्यवलवाहनः ॥ २ ॥

 प्रविवेश-प्रवेशाभिमुखो बभूव ॥ २ ॥

 यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः ।
 मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुङ्गवम् ॥ ३ ॥

 [२] [३] मुनिपुङ्गवः वसिष्ठः । पुरोहित आश्रयणीयः किल !॥ ३ ॥

 श्रीमतां गच्छतां तेषां [४]स्वपुराणि पुरात्ततः ।
 बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे ॥ ४ ॥

 शुभ्राणीति । दशरथदत्तवस्त्राभरणादितोऽत्युज्वलानि । तत एव हेतोः प्रहर्षः ॥ ४ ॥

 गतेषु पृथिवीशेषु राजा दशरथस्तदा ।
 प्रविवेश पुरीं श्रीमान् पुरस्कृत्य[५]द्विजोत्तमान् ॥ ५ ॥

 द्विजोत्तमाः-वसिष्ठाद्याः ॥ ५ ॥


  1. अवयवदेवताः–वानराद्याः, प्रधानदेवता-श्रीरामः
  2. मुनिपुङ्गवं वसिष्ठं ऋष्यशृङ्गं च-ति.
  3. मुनिपुङ्गवम्-वसिष्ठम्-ग.
  4. स्वगृहाणि-ङ.
  5. द्विजोत्तमम् ङ.