पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
178
[बालकाण्ड:
ऋक्षवानराद्युत्पत्तिः

 ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः ।
 विचरन्तोऽर्दयन् दर्पात् सिंहव्याघ्रमहोरगान् ॥ ३४ ॥
 तांश्च सर्वान् महाबाहुर्वाली विपुलविक्रमः ।
 जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥ ३५ ॥

 वाली जुगोपति देवराजावतारत्वादेव ॥ ३५ ॥

 तैरियं पृथीवी शूरैः सपर्वतवनार्णवा ।
 कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥ ३६ ॥

 विविधसंस्थानैः-स्थूलसूक्ष्मह्रस्वदीर्घादिनानाप्रकारदेहसंस्थानविशेषवद्भिः । नानाविधानि व्यञ्जनानि-अयं सुग्रीवः, अयं हनुमानित्यसाधारणतत्तत्स्वरूपव्यक्त्य[१]साधारणानि लक्षणानि-प्रशस्तहनुयुक्तत्वादिचिह्नानि येषां ते तथा ॥ ३६ ॥

 तैर्मेघबृन्दाचलकूटकल्पैः
  महाबलैर्वानरयूथपालैः ।
 बभूव भूर्भीमशरीररूपैः
  समावृता रामसहायहेतोः ॥ ३७ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तदशः सर्गः

 अचलकूटः-पर्वतशृङ्गः । शरीररूपं-शरीरसंस्थानम् । साल (३७) मानः सर्गः ॥ ३७ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तदशः सर्गः


  1. साधारणकारणानि-क. ख.