ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः ।
विचरन्तोऽर्दयन् दर्पात् सिंहव्याघ्रमहोरगान् ॥ ३४ ॥
तांश्च सर्वान् महाबाहुर्वाली विपुलविक्रमः ।
जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥ ३५ ॥
वाली जुगोपति देवराजावतारत्वादेव ॥ ३५ ॥
तैरियं पृथीवी शूरैः सपर्वतवनार्णवा ।
कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः ॥ ३६ ॥
विविधसंस्थानैः-स्थूलसूक्ष्मह्रस्वदीर्घादिनानाप्रकारदेहसंस्थानविशेषवद्भिः । नानाविधानि व्यञ्जनानि-अयं सुग्रीवः, अयं हनुमानित्यसाधारणतत्तत्स्वरूपव्यक्त्य[१]साधारणानि लक्षणानि-प्रशस्तहनुयुक्तत्वादिचिह्नानि येषां ते तथा ॥ ३६ ॥
तैर्मेघबृन्दाचलकूटकल्पैः
महाबलैर्वानरयूथपालैः ।
बभूव भूर्भीमशरीररूपैः
समावृता रामसहायहेतोः ॥ ३७ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तदशः सर्गः
अचलकूटः-पर्वतशृङ्गः । शरीररूपं-शरीरसंस्थानम् । साल (३७) मानः सर्गः ॥ ३७ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तदशः सर्गः
- ↑ साधारणकारणानि-क. ख.