पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७ सर्गः]
171
तत् प्राश्य रराजपत्न्यस्ताः दिव्यान् गर्भान् दधुस्ततः

 हुताशनादित्यसमानतेजस इति गर्भविशेषणं दिव्यगर्भवतस्त्रीविशेषणं च, प्रथमान्ततया रूपं चाविशिष्टम् ॥ ३१ ॥

 ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः
  प्ररूढगर्भाः प्रतिलब्धमानसः ।
 बभूव हृष्टस्त्रिदिवे यथा हरिः
  सुरेन्द्रसिद्धर्षिगणाभिपूजितः ॥ ३२ ॥ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षोडशः सर्गः

 प्ररूढगर्भाः प्रतिवीक्ष्य प्रतिलब्धमानसः-प्राप्तगर्भसत्तानिश्चयं मानसं यस्य स तथा । इदं विशेषणं हरेरिन्द्रस्यापि [१]हर्षोत्पतौ समानम् । रङ्ग (३२) मानः सर्गः ॥ ३२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षोडशः सर्गः

अथ सप्तदशः सर्गः

[ऋक्षवानराद्युत्पत्ति:]

 पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः ।
 उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥ १ ॥

 अथ प्रपञ्च इव एक एव भगवान् त्रिभूमविग्रहोपगृहीतस्त्रिब्रह्ममूर्तिरपि विराडवतारे वैराजविष्णूपग्रहप्राधान्येनावतीर्णः स्वावयव-सर्वत्रिदशानपि [२] स्वस्वस्थूलविराड्विष्णूपग्रहप्राधान्येन प्रधानदेवता-


  1. हर्षोत्पत्तौ इति-ग-पुस्तके नास्ति,
  2. स्वस्व इति-ग पुस्तके नास्ति,