हुताशनादित्यसमानतेजस इति गर्भविशेषणं दिव्यगर्भवतस्त्रीविशेषणं च, प्रथमान्ततया रूपं चाविशिष्टम् ॥ ३१ ॥
ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः
प्ररूढगर्भाः प्रतिलब्धमानसः ।
बभूव हृष्टस्त्रिदिवे यथा हरिः
सुरेन्द्रसिद्धर्षिगणाभिपूजितः ॥ ३२ ॥ ॥
इत्यार्षे श्रीमद्रामायणे बालकाण्डे षोडशः सर्गः
प्ररूढगर्भाः प्रतिवीक्ष्य प्रतिलब्धमानसः-प्राप्तगर्भसत्तानिश्चयं मानसं यस्य स तथा । इदं विशेषणं हरेरिन्द्रस्यापि [१]हर्षोत्पतौ समानम् । रङ्ग (३२) मानः सर्गः ॥ ३२ ॥
इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षोडशः सर्गः
अथ सप्तदशः सर्गः
[ऋक्षवानराद्युत्पत्ति:]
पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः ।
उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥ १ ॥
अथ प्रपञ्च इव एक एव भगवान् त्रिभूमविग्रहोपगृहीतस्त्रिब्रह्ममूर्तिरपि विराडवतारे वैराजविष्णूपग्रहप्राधान्येनावतीर्णः स्वावयव-सर्वत्रिदशानपि [२] स्वस्वस्थूलविराड्विष्णूपग्रहप्राधान्येन प्रधानदेवता-