पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
100
[बालकाण्ड:
प्रजावर्णनम्

 विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।
 मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ॥ २३ ॥

 हैमवतैः । 'तत्र जातः' इति शैषिकोऽण् ॥ २३ ॥

 ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।
 [१]अञ्जनादपि [२]निष्पन्नैर्वामनादपि च द्विपैः ॥ २४ ॥

 कुले भवाः कुलीनाः । 'कुलात्खः' । पुण्डरीकाख्यो दिग्गजो महापद्म इत्युच्यते, तस्य कुलं-वंशो येषां ते तथा । अज्जनादिरपि दिग्गजविशेषः ॥ २४ ॥

 [३]भद्रैर्मन्द्रैमृगैश्चैव भद्रमन्द्रमृगैस्तथा ।
 भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥ २५ ॥
 नित्यमत्तैस्सदा पूर्णा नागैरचलसन्निभैः ।

 हिमवति जाता भद्राख्याः । विन्ध्यजाता मन्द्राख्याः | सह्यजाता मृगाख्याः । तत्र त्र्यादिस्वभाववन्तोऽन्ये भद्रमन्द्रमृगाः । द्विस्वभाववन्तो भद्रमन्द्रादयः ॥ २५ ॥

 [४]सा योजने च द्वे भूयः सत्यनामा प्रकाशते ॥ २६ ॥

 पुरी द्वे योजने, द्वयोर्योजनयोरत्यन्तसंयोगे द्वितीया । भूयः-अभ्यधिकम् । सत्यनामा–योद्धुमशक्या अयोध्येत्येवं अन्वर्थनामा प्रका-


  1. अञ्जनो वरुणदिग्गजः । महापद्मः अग्निदिग्गजः । वामनो दक्षिणदिग्मजः ॥
  2. निष्क्रान्तैः-च.
  3. भद्राः मन्द्राः मृगाश्चेति गजजातित्रयम् । भद्रमन्द्रो भद्रमृगो मृगमन्द्रश्चेति द्वि-प्रकृतिकाः सङ्कीर्णजातयस्तिस्रः । भद्रमन्द्रमृगाः त्रिप्रकृतिकाः सङ्कीर्णगजाः- गो.
  4. एतदनन्तरं, 'यस्यां दशरथो राजा वसञ्जगदपालयत् ॥' इदमर्धे कुत्रचिदधिकं दृश्यते-ङ.