विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि ।
मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः ॥ २३ ॥
हैमवतैः । 'तत्र जातः' इति शैषिकोऽण् ॥ २३ ॥
कुले भवाः कुलीनाः । 'कुलात्खः' । पुण्डरीकाख्यो दिग्गजो महापद्म इत्युच्यते, तस्य कुलं-वंशो येषां ते तथा । अज्जनादिरपि दिग्गजविशेषः ॥ २४ ॥
[३]भद्रैर्मन्द्रैमृगैश्चैव भद्रमन्द्रमृगैस्तथा ।
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥ २५ ॥
नित्यमत्तैस्सदा पूर्णा नागैरचलसन्निभैः ।
हिमवति जाता भद्राख्याः । विन्ध्यजाता मन्द्राख्याः | सह्यजाता मृगाख्याः । तत्र त्र्यादिस्वभाववन्तोऽन्ये भद्रमन्द्रमृगाः । द्विस्वभाववन्तो भद्रमन्द्रादयः ॥ २५ ॥
[४]सा योजने च द्वे भूयः सत्यनामा प्रकाशते ॥ २६ ॥
पुरी द्वे योजने, द्वयोर्योजनयोरत्यन्तसंयोगे द्वितीया । भूयः-अभ्यधिकम् । सत्यनामा–योद्धुमशक्या अयोध्येत्येवं अन्वर्थनामा प्रका-
- ↑ अञ्जनो वरुणदिग्गजः । महापद्मः अग्निदिग्गजः । वामनो दक्षिणदिग्मजः ॥
- ↑ निष्क्रान्तैः-च.
- ↑ भद्राः मन्द्राः मृगाश्चेति गजजातित्रयम् । भद्रमन्द्रो भद्रमृगो मृगमन्द्रश्चेति द्वि-प्रकृतिकाः सङ्कीर्णजातयस्तिस्रः । भद्रमन्द्रमृगाः त्रिप्रकृतिकाः सङ्कीर्णगजाः- गो.
- ↑ एतदनन्तरं, 'यस्यां दशरथो राजा वसञ्जगदपालयत् ॥' इदमर्धे कुत्रचिदधिकं दृश्यते-ङ.