पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सर्गः]
101
तस्य राज्ञः सुमन्त्राद्या अमात्या अभवन् बुधाः

शते । द्वादशयोजनायामायाः तिर्यक् त्रियोजनविस्तारवत्याः तस्याः राज्ञो मूलधाम्न उक्तद्वियोजनमानकत्वतो भूयः सत्यनामत्वम् । सत्यनामेति । 'डाबुभाभ्याम्' इति डाप् ॥ २६ ॥

 तां पुरीं स महातेजा राजा दशरथो महान् ।
 शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥ २७ ॥

 तां सत्यनामां दृढतोरणार्गलां
  गृहैर्विचित्रैरुपशोभितां शिवाम् ।
 पुरीमयोध्यां नृसहस्रसङ्कुलां
  शशास वै शक्रसमो महीपतिः ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे षष्ठः सर्गः

 शमितः-नाशितः अमित्रो येन स तथा । 'निष्ठायां सेटि' इति णिलोपे अमन्ततो मित्वाद्धूस्वः । तां सत्यनामामित्यत्रापि डाप् । [ सप्तविंशतिः अर्धाधिका? ] ॥ २८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे षष्ठः सर्गः


अथ सप्तमः सर्गः

[अमात्यादिवर्णनम्]

 तस्यामात्या गुणैरासन्निक्ष्वाकोस्तु महात्मनः ।
 मन्त्रज्ञाश्वेङ्गितज्ञाश्च नित्यं प्रियहिते रताः ॥ १ ॥

 अथेदानीं सन्मन्त्रिसम्पत्तिरूपो राज्ञो विशेषधर्म उपदिश्यते-तस्येत्यादि । अमात्याः । राज्ञा सर्वराज्यव्यापारेषु सह वसन्तीत्यमात्याः । 'अव्ययात्त्यप्' । गुणैः-अमात्यापेक्षितैर्वक्ष्यमाणैरुपेताः ।