पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
102
[बालकाण्डः
अमात्यादिवर्णनम्

इक्ष्वाकोः-दशरथस्य, तद्वंशजत्वात्ताच्छन्द्यम् । मन्त्रः-कार्यविचारः । इङ्गितं-पौराभिप्रायः, तत् मुखसङ्कोचव्यङ्ग्यवचनादिभिः जानन्तीति तथा ॥ १ ॥

 अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्स्विनः ।
 शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः ॥ २ ॥

 शुचयः-असत्यस्वामिद्रोहादिरूपवाङ्मनसाशुचिरहिताः । नित्यशो राजकृत्येषु-तदनुष्ठानेषु अनुरक्ताः-तत्पराः ॥ २ ॥

 धृष्टिर्जयन्तो विजयः [१]सिद्धार्थो ह्यर्थसाधकः ।
 अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत् ॥ ३ ॥

 के च तेऽष्टावित्यत आह-धृष्टिरित्यादि ॥ ३ ॥

 ऋत्विजौ द्वावभिमतौ तस्याऽऽस्तामृषिसत्तमौ ।
 [२]वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे ॥ ४ ॥

 ऋत्विजौ-पुरोहिताविति यावत् । अपर इति । उक्ताष्टप्रधानमन्त्रिव्यतिरिक्ता इति यावत् । कश्चिदपरः-"मन्त्रिणः मन्त्रविदः-ऋत्विजः आसन्" इत्याह । तदसत् । उत्तरत्र मन्त्रिगुणवर्णने" प्राप्तकालं च ते दण्डान् धारयेयुस्सुतेष्वपि "इत्यादीनां ब्राह्मणेष्वसम्भावितत्वात् ॥ ४ ॥

 विद्याविनीता ह्रीमन्तः कुशला नियतेन्द्रियाः ।
 परस्परानुरक्ताश्च नीतिमन्तो बहुश्रुताः ॥ ५ ॥

 विद्याविनीता इति । विद्यायाः विनयः किल फलम् ॥ ५ ॥


  1. सुराष्ट्रो राष्ट्रवर्धनः । अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमोऽर्थवित् ॥ इत्यधिकं-ङ.
  2. एतदनन्तरं । सुयज्ञोऽष्यथ जाबालिः काश्यपोऽप्यथ गौतमः ॥ मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः । एतैर्बह्मर्षिमिर्नित्यमृत्विजस्तस्य पौर्वकाः । इत्यधिकं-ङ.