पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६ सर्गः]
99
तादृशैराश्रिताऽयोध्या सत्यनामाऽभवत्तदा

 दीर्घायुषो नरास्सर्वे धर्मं सत्यं च संश्रिताः ।
 सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥ १८ ॥
 क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः ।
 शूद्रास्स्व[१]. धर्मनिरतास्त्रीन्वर्णा[२]नुपचारिणः ॥ १९ ॥

 ब्रह्ममुखं-ब्रह्मप्रधानम्, तदाज्ञानुवर्तीति यावत् । कश्शूद्रस्य धर्म इत्यतः-त्रीन्वर्णानित्यादि । उपचारिणः-उपचरणशीलाः । चरे-स्ताच्छीलिको णिनिः ॥ १९ ॥

 सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षता ।
 यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥ २० ॥
 [३]योधानामग्निकल्पानां पेशलानाम् [४]मर्षिणाम् ।
 सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव ॥ २१ ॥

 योधानामग्निकल्पानामिति । शौर्यातिशयादभिकल्पत्वं योधानाम् । पेशलाः-अकुटिलाः । अमर्षिणः-पराभिभवासहिष्णवः । अमर्षिणां पूर्णेति योज्यम् । कृता-शिक्षिता अस्त्रशस्त्रादिविद्या यैस्ते तथा ॥ २१ ॥

 काम्भोजविषये जातैः [५]बाह्लिजैश्च हयोत्तमैः ।
 [६]वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥ २२ ॥

 एवं पदातिसौष्ठवमुक्त्वा अश्वादिसौष्ठवोपदेशः-काम्भोजेत्यादि । विषयो देशः । बाह्लीकः बाह्लिरिति गृह्यते नामैकदेशतः, छन्दोवशात् । हरिः-इन्द्रः, तस्य हयः-उच्चैश्रवाः, तद्वदुत्तमा इति यावत् ॥ २२ ॥


  1. कर्म- ङ
  2. ननुयायिनः-ङ.
  3. 'पूरणगुण' इत्यादिना षष्ठी । योधैः संपूर्णा-गो.
  4. नां सुवर्चसाम्, नां मनीषिणाम् ङ.
  5. बाह्लीकैश्च-ङ. च.
  6. वनायुः-देशविशेषः । नदीजैः-सिन्धुदेशजैः.