पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
98
[बालकाण्ड:
प्रजावर्णनम्

 नास्ति दिष्टं मतिर्यस्य स नास्तिकः, 'अस्ति नास्ति दिष्टं मतिः' इति ठक् । अनुतकः-असत्यवचनः । अशक्तः -स्वस्यैहिकामुष्मिकार्थसाघनासमर्थः । नाविद्वानिति । गुणवर्णनेष्वादरात् पौनरुक्त्यमदोषायेति प्रागेवोपपादितम् ॥ १४ ॥

 नाषडङ्गविदत्रासीन्नावतो [१]नासहस्रदः ।
 [२]न दीनः क्षिप्तचित्तो वा व्यथितो वाऽपि कश्चन ॥ १५ ॥

 व्रतं-एकादश्यादिव्रतम् । क्षिप्तचित्त इति । उन्मादादिनेति शेषः । व्यथितः-आधिव्याध्यादिपीडितचित्त इत्यर्थः ॥ १५ ॥

 कश्चिन्नरो वा नारी वा [३]नाश्रीमान्नाप्यरूपवान् ।
 द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥ १६ ॥

 स्त्रियास्तु नाश्रीमतीत्याद्यूह्यम् । मूर्धाभिषिक्तो राजा दशरथः, तस्मिन् भक्तिः स्नेहं, तद्रहितो नाभूत् । इदं सर्वप्रजासाधारणं शुभमित्युच्यते ॥ १६ ॥

 वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।
 कृतज्ञाश्च वदान्याश्च [४]शूरा विक्रमसंयुताः ॥ १७ ॥

 वर्णेष्वित्यादि । अग्र्यः-ब्राह्मणः । अग्रे भवः, अग्राद्यत्', स चतुर्थो येषां वर्णानां ते तथा । 'वदान्यो दानशौण्डस्स्यात्' इति विश्वः ॥ १७ ॥


  1. दानाध्ययनेत्यत्र विद्यादानमुक्तं, अत्र हिरण्यादिदानं-गो.
  2. निन्दितः-ङ.
  3. आश्रीमान् कान्तिरहितः । अरूपवान्-सौन्दर्यरहितः-गो.
  4. ब्राह्मणेष्वध्ययनशूरत्वम् । ब्राह्मणानां पराक्रमो वादकथासु-गो.