पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६ सर्गः]
97
तस्य प्रजा धर्मरताः शूरास्तुष्टास्सदाऽभवन्

 नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ।
 नाहस्ताभरणो वाऽपि दृश्यते नाप्यनात्मवान् ॥ ११ ॥

 सृष्टं-पूर्णम् । अन्नाभावप्रयुक्तपूर्णभोजनरहित इति यावत् । नादातेति । [१]साक्षिभोजनरहित इति यावत् । अङ्गदं, निष्कं-उरोभूषणं च धरतीति तथा । 'हेम्न्युरोभूषणे निष्के दीनारेऽपि फलेऽपि च' इति निघण्टुः । अनात्मवान्-अजितान्तःकरणः ॥ ११ ॥

 नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः ।
 कश्चिदासीदयोध्यायां [२]न च निवृत्तसङ्करः ॥ १२ ॥

 अयज्वा-सोमयागरहितः । क्षुद्रः-अल्पविद्यैश्वर्यवान्, तिरस्कारार्ह इति यावत् । निर्वृत्तं-अनुष्ठितं सङ्करः-साङ्कर्यं-परक्षेत्रे बीजा-बापादिसाङ्कर्यं येन स तथा ॥ १२ ॥

 स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।
 दानाध्ययनशीलाश्च संयताश्च [३]प्रतिग्रहे ॥ १३ ॥

 दानाध्ययनेति । 'ततो यत्किंच ददाति सा दक्षिणा' इति नित्यप्राप्तयथाशक्तचन्नपानादिदानादिमन्तः । संयताः-सङ्कुचिताः ॥ १३ ॥

 [४]न नास्तिको नानृतको न कश्चिदबहुश्रुतः ।
 नासूयको न वाऽशक्तो नाविद्वान्विद्यते तदा ॥ १४ ॥


  1. 'नामृष्टभोजी' इत्यनुपदमेवोक्तत्वादेवं व्याख्यातम्.
  2. न चावृत्तो न सङ्करः-च. (आवृत्तः=सदाचाररहितः).
  3. परिग्रहे ङ.
  4. पूर्वे 'सत्यवादिनः' (५) 'न च नास्तिकः (८) इति जनसामान्याभिप्रायेणोक्तम् । इदानीं तु ब्राह्मणाः' (१३) इति कथनात् विशिष्योच्यत इति न पौनरुक्त्यम्.