पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
96
[बालकाण्डः
प्रजावर्णनम्

 नाल्पसन्निचयः कश्चिदासीत्तस्मिन् पुरोत्तमे ।
 कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥ ७ ॥

 अल्पतया[१] सन्-विधमानो निचयः-धान्यादिसङ्ग्रहो यस्य स तथा । यो हि अगवाश्वधनादिमान्, अत एव असिद्धार्थः-असिद्धैहिकामुष्मिकप्रयोजनः, कुटुम्बी न कश्चिदिति योजनार्थः ॥ ७ ॥

 कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।
 द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः ॥ ८ ॥

 कामी-कामैकतत्परः । कदर्यः-'आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत्-ग.वञ्चयन् । लोभाद्यः पितरौ भ्रातॄन् स कदर्य इति स्मृतः ॥' इति मनुः । नृशंसः-क्रूरः । द्रष्टुं शक्यमिति छान्दसं नपुंसकत्वम् ॥ ८॥

 सर्वे नराश्च नार्यश्च धर्मशीलास्सुसंयताः ।
 [२]उदिताश्शीलवृत्ताभ्यां महर्षय इवामलाः ॥ ९ ॥

 सुसंयताः-सुष्ठु निगृहीतेन्द्रियाः । सहशीलवृत्ततयोदितत्वे महर्षि-दृष्टान्तः ॥ ९ ॥

 नाकुण्डली नामकुटी नास्रग्वी नाल्पभोगवान् ।
 नामृष्टो [३]नानुलिप्ताङ्गो [४]नासुगन्धश्च विद्यते ॥ १० ॥

 भोगाः-धर्माविरुद्धकामभोगाः । 'निर्णिक्तं शोधितं मृष्टं' । अमृष्टः–अभ्यङ्गस्नानादिनाऽनिर्णिक्तदेह इति यावत् । नानुलिप्ताङ्ग इति । 'सुप्सुपा' इति समासः । भद्रदारुपनसादिनाप्यनुलिप्तत्वसम्भवादुच्यते-असुगन्ध इति । अलभ्यचन्दनादिसुगन्ध इति यावत् ॥ १० ॥


  1. सतां उत्कृष्टवस्तूनां निचयः सन्निचयः । अल्पः सन्निचयो यस्य-ति. शक्यमिति निपातः 'शक्यमरविन्दसुरभिः' इति कालिदासेनापि प्रयुक्तः-गो.
  2. मुदिताः-ङ.
  3. नानलिप्ताङ्गः-ड.
  4. नासुगन्धिश्च-ङ