पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६ सर्गः]
95
तस्यां पुर्यामयोध्यायां राजा दशरथोऽवसत्

 'महारथैरेकयोद्धा भवेदतिरथो रथी' । महर्षिकल्पः-व्याकृतचरः ॥ २ ॥

 बलवान्निहतामित्रो मित्रवान्विजितेन्द्रियः ।
 धनैश्च [१]सञ्चयैश्चान्यैः शक्रवैश्रवणोपमः ॥ ३ ॥

 धनं-हिरण्यम् । धनापेक्षयान्ये सञ्चयाः-मुक्तादिनवरत्नदिव्याम्बराभरणादयः । विश्रवसोऽपत्यं वैश्रवणः । विश्रवणरवण इत्यण्-सन्नियोगे विश्रवणादेश इति प्रागेवोक्तम् ॥ ३ ॥

 [२]यथा मनुर्महातेजा लोकस्य परिरक्षिता ।
 तथा दशरथो राजा वसञ्जगदपालयत् ॥ ४ ॥

 महातेजस्त्वे मनुदृष्टान्तः-तथा तद्वन्महातेजाः-तस्यां पुर्यां वसन् जगदपालयदिति योजना ॥ ४ ॥

 तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता ।
 पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ॥ ५ ॥

 धर्मकामार्थास्त्रिवर्गसंज्ञाः। त्रिवर्गानुष्ठानप्राधान्यं गृहीत्वा पालिताऽभवदिति योजनीयम् ॥ ५ ॥

 तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः ।
 नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥ ६ ॥

 धर्मात्मानः-धर्मवासनावासितान्तःकरणाः । बहुश्रुता इति बहुब्रीहिः । श्रुतं-वेदशास्त्रलक्षणम् । कर्मणि निष्ठा । प्राप्तोत्तरस्पृहावत्त्वे सति काचमात्रस्यापि दित्साभावो लोभः ॥ ६ ॥


  1. सङ्गुहैश्चा-ङ.
  2. यथा मनुः लोकस्य परिरक्षिता तथेत्यन्वयः.