पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
94
[बालकाण्डः
दशरथवर्णनम्

 अथ काव्यलक्षणं वृत्तभेदेन सर्गसमापनं कुर्वता अदृष्टबलसंम्पत्तिश्चोपदिश्यते-अग्निमद्भिरित्यादि । अग्नयस्त्रेधालक्षणाः, गुणाश्शमदमादयः । वेदानां वेदषडङ्गानां च पारगास्तथा । एवं ब्रह्मसङ्घभूयस्त्वम् । अथ राजर्षिसङ्घभूयस्त्वोपदेशः-सहस्रदैरित्यादि । 'दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्' । महर्षिकल्पैः-महर्षितुल्यवृत्तैश्च, केवलैः ऋषिभिश्च, पूर्णां तां इति पूर्वेणान्वयः । गिरि (२३) मानः ॥ २३ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे पञ्चमः सर्गः


अथ षष्ठः सर्गः

[दशरथस्य, तत्प्रजानां च वर्णनम्]

 तस्यां पुर्यामयोध्यायां वेदवित्सर्वसङ्ग्रहः ।
 दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥ १ ॥

 अथ काव्योत्तमस्य परलोकोपकारकत्वेन अप्राकृतत्वायान्वयमुखेन राजधर्मः व्यतिरेकमुखेन तत्प्रजाधर्मश्चोपदिश्यते-तस्यामित्यादि । वेदविदिति । त्रैवर्णिकमात्रस्य सर्वाद्योऽयं गुणः । अथ क्षत्रियविशेषधर्मः-सर्वसङ्ग्रह इत्यादि । [१] सर्वेषां अपरिमितकोशचतुरङ्गबलराष्ट्रदुर्गादीनां सार्वभौमापेक्षितपदार्थानां सङ्ग्रहो यस्मिन् । 'ग्रहवृह-' इत्यप् । एवं सामादिप्रयोगे एवं फलं भविष्यतीत्यादिलक्षणदीर्घदर्शनशीलः । तेजः-प्रतापः ॥ १ ॥

 [२]इक्ष्वाकूणामतिरथो यज्वा [३]धर्मरतो वशी ।
 महर्षिकल्पो राजर्षित्रिषु लोकेषु विश्रुतः ॥ २ ॥


  1. सर्वेषामपरिमितचतुरङ्गबलराष्ट्रदुर्गादीनां सङ्ग्राहकः-ति.
  2. इक्ष्वाकूणामिति निर्धारणे षष्ठी। इक्ष्वाकूणां मध्ये अतिरथः
  3. धर्मपरो-ङ.