पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः]
63
वाल्मीकयो ब्रह्मणो वरदानम्

 धर्मात्मनो[१] भगवतो लोके रामस्य धीमतः ।
 वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ॥ ३२ ॥

 कथं मया कर्तव्यमित्यत्राह-धर्मेति । अस्मिन् लोके इदानीं धर्मात्मनेत्यर्थः ॥ ३२ ॥

 रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः ।
 रामस्य सहसौमित्रे राक्षसानां च सर्वशः ॥ ३३ ॥
 वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः ।
 यच्चाप्यविदितं सर्वं विदितं ते भविष्यति ॥ ३४ ॥

 यच्चाप्यविदितमिति । प्राकृतदुर्वेदं प्रसङ्गात् काव्यमध्ये [२]वक्तव्यं ब्रह्मरहस्यान्तमलौकिकार्थतत्त्वं लोकायतान्तलौकिकव्यवहारार्थतत्त्वं चेत्यर्थः ॥ ३४ ॥

 न ते वागनृता काव्ये काचिदत्र भविष्यति ।
 कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ॥ ३५ ॥

 अनृता-मिथ्यार्था । कुरु रामकथां-रामचरितविषयिणी कथा-[३]काव्यप्रबन्धस्तथा ॥ ३५ ॥

 यावत् स्थास्यन्ति गिरयः सरितश्च महीतले
 तावद्रामायणकथा लोकेषु प्रचरिष्यति ॥ ३६ ॥

 यद्यपि त्वदाज्ञासन्निहितदेव्यनुग्रहात् काव्यं सुकरम् । अथापि तस्य प्रचारणे मम शक्तयभावात् किं तेन प्रयोजनमित्यतः-यावदिति । यावत्तावताववध्यर्थावव्ययौ । प्रचरिष्यतीति । मदनुग्रहात् स्वयमेव लोकेष्विति शेषः ॥ ३६॥


  1. गुणवतो-ङ.
  2. कर्तव्यम्-क.
  3. वाक्य-क.