पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
62
[बालकाण्डः
वाल्मीकिं प्रति ब्रह्मणो रामायणरचननियोगः

द्धन्यात्-हतवानस्ति इति यत्, कष्टमेतत् । "यच्चयत्रयोः" इति गर्हायां भूतार्थे लिङ् । एवं वियुक्तां क्रौञ्चीमुद्दिश्य घृणाद्यष्टपालबद्धसंसारित्वात् मुहुश्शोचन् भगवत्यन्तर्गतमना भूत्वैव सन् [१]उप-समीपे भगवद्ध्याने क्रियमाण एवान्तरान्तरा प्रागुक्तभावित्वात् शोकपरायणस्सन् इमं श्लोकं-[२]पापात्मनेत्याद्युक्तं श्लोकं च पुनःपुनर्जगौ ॥ २८-२९ ॥

 तमुवाच ततो ब्रह्मा ग्रहस्य मुनिपुङ्गवम् ।
 श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ॥ ३० ॥

 ततो भगवान् ब्रह्मा सर्वान्तर्यामित्वात्तदीयं शापबन्धकृतं दुश्चित्तमालक्ष्य प्रहस्य तं मुनिपुङ्गवं उवाच । किमिति-मच्चित्तेनापि त्वया पारतन्त्र्यात् इदानीमपि शोकव्याजेन श्लोक एव बद्धः । त्वया प्राङ्निश्चितश्लोकत्वश्लोकवदयमपि समीचीनश्लोक एव । नात्र संदर्भमात्रत्वाविचारणा-चिन्ता श्लोकाभासत्वादिचिन्ता वा कार्या । णौ चरसंशये,अस्मात् 'ण्यासश्रन्थो युच्' इति युच् ॥ ३० ॥

 मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ।
 रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम ॥ ३१ ॥

 ननु नाथ ! कथं मयि त्वद्ध्यानारूढचित्तेऽपि अन्तरान्तरा मे श्लोकप्रवृत्तिरित्यत उच्यते-मच्छन्दादिति । परमभक्तत्वन्मुखेन मदवताररामचरितविषयकं सत्यं काव्यं प्रवर्तनीयमित्येवंरूपमदभिप्रायानुवर्तनाद्धेतोः, हे ब्रह्मन् ! ते-तव मुखादियं सरस्वती प्रवृत्ता। मदनुग्रहात् त्वयि सन्निहितयानया महर्षिसत्तम ! रामस्य कृत्स्नं चरितं विषयीकृत्य काव्यं कुरु ॥ ३१ ॥


  1. उपजगौ इत्यन्वयः-गो.
  2. मानिषादेत्याद्युक्तं-इति युक्तम्.