पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः]
61
वाल्मीकेः शापश्लोकचिन्तनम्

 अथोपविश्य भगवान् आसने परमार्चिते ।
 वाल्मीकये च ऋषये संदिदेशासनं ततः ॥ २६ ॥

 वाल्मीकये च ऋषय इति पठितव्यम् । [१]महर्षय इति पाठे चतुर्थगुर्वक्षरेण छन्दोभङ्गः । आसनं सन्दिदेशेति । आसनोपवेशनानुज्ञां कृतवान् भगवानिति यावत् ॥

 ब्रह्मणा समनुज्ञातः सोऽप्युपाविशदासने ।

 [२]ब्रह्मणेत्याद्यर्धं स्वस्मिन्नेव परिसमाप्तवाक्यं सत् श्लोकत्वेन गण्यतां, पूर्वापरलोकास्सर्वे यथावदर्धद्वयान्विताः ॥ २६ ॥

 उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ।
 तद्गतेनैव मनसा वाल्मीकिर्ध्यानमाश्रितः ॥ २७ ॥

 उपविष्ट इति । भगवति साक्षादुपविष्टे सति । तद्गतेनैव-भगव-द्गतेनैव मनसा । वाल्मीकिः [३]ध्यानं-समाधिमाश्रितः ॥ २७ ॥

 पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ।
 यत्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ॥ २८ ॥
 शोचन्नेव पुनः क्रौञ्चीमुपश्लोकमिमं जगौ ।
 पुनरन्तर्गतमना भूत्वा शोकपरायणः ॥ २९ ॥

 अथापि । पापेत्यादिश्लोकद्वयं एकसम्बन्धम् । पापात्मना-पाप-वासनाविशिष्टचित्तेन । अत एव पशुपक्ष्यादिष्वकारणत एव वैरग्रहण-बुद्धिना-नित्यजिघांसोपगृहीतबुद्धिना अहो कष्टं कृतं । किं कष्टं कृतमित्यतः–यदित्यादि । तादृशं सम्भोगप्रसक्तं चारुवं क्रौञ्चमकारणा-


  1. गो.
  2. नन्वर्धत्रयकरणं विरुद्ध्यते-मैवं-लेखकदोषेणार्थान्तरपतनसम्भवात्-गो.
  3. अत्रापि २२तम श्लोकवदेव ध्यानं विवक्षितुं युक्तं, उत्तरलोकानुगुणं च तत् ।