पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
60
[बालकाण्डः
वाल्मीकिना ब्रह्मपूजनम्

[१]ध्यानप्रवृत्तत्वान्महर्षेस्तदनुग्रहाच्चतुर्मुखमूर्त्यैवागमनम्। चतुर्मुखस्वरूपं तु "यजुरथर्वसामर्चक्षमादिव" इत्याद्युपनिषद्रहस्यप्रकाशितम् । प्राकृत-श्रुतिगोचरार्हेऽस्मिन् व्याख्याने वा रहस्यवदनादि प्रापनीय्यम् । मामकास्तु तत्सर्वं विदुरेव । एवं सादर[२]सदाध्यानपरत्वादृषिसत्तमं तं वाल्मीकिं द्रष्टुमाजगाम–तदीयकविताचातुर्यकाव्यौन्मुख्यादिप्रवृत्तिं द्रष्टुम्, दृष्ट्वा तामुपोद्वलयितुमाजगामेत्यर्थः । एतेन लोककर्तुर्भगवतः ऋषेर्दर्शनार्थमागमनमश्रद्धेयमिति शङ्काऽपास्ता ॥ २३ ॥

 वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः ।
 प्रणतः प्राञ्जलिर्भूत्वा तस्थौ परमविस्मितः ॥ २४ ॥

 प्राक् प्रणतः पश्चात् प्राञ्जलिर्भूत्वा तस्थाविति योजना । अत्र 'पाद्यार्ध्य' इत्युपनिषदुपदिश्यमानषोडशोपचाराणां मध्ये दैवात्सम्पन्नमिहाद्यमुपचारद्वयम् ॥ २४ ॥

 पूजयामास तं देवं पाद्यार्ध्यासनवन्दनैः ।
 प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम् ॥ २५ ॥

 पाद्यादिः उपचारान्तराणामप्युपलक्षकः, तत्रानामयप्रश्न आवाहनशेषः । अव्ययं–व्ययः–जन्मादिनाशान्तविकारः, स्वेतरसर्वसंस्कारस्य तत्साक्षात्प्रवर्तकं, कालोपग्रहत्वतोऽपि व्ययप्रसक्तिशून्यम्, देवं-अपरोक्षानुभूयमानानन्यसामान्यदिव्यार्थं । प्रथमं स्वागतं अत्रभवतां स्वामिनामित्यनामयं पृष्ट्वा-स्वागतप्रश्नं कृत्वा, पाद्याद्युपचारैस्सम्पूज्य पश्चाद्दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवादयीत, इत्याद्युपदि-श्यमानन्यायेन विधिवच्च प्रणम्य-ब्राह्मं प्रणामं कृत्वा एनमेवं पूजयामास ॥ २५ ॥


  1. प्रवृत्तध्यानत्वा-ग.
  2. सद्ध्यान-ग.