पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः]
59
वाल्मीक्याश्रमं प्रति ब्रह्मागमनम्

 भरद्वाजः, श्रुतवान्-बहुश्श्रुतः । [१]पृष्ठतः-स्कन्धपृष्ठभागेन पूर्णं कलशमादाय तं मुनिं आचार्यं अनुजगामेति योजना ॥ २१ ॥

 स प्रविश्याश्रमपदं शिष्येण सह धर्मवित् ।
 उपविष्टः कथाश्चान्याश्रकार ध्यानमास्थितः ॥ २२ ॥

 स कथाश्चान्याः-धर्म्याश्चकार । अनन्तरं माध्याह्निककृत्यत्वेन नित्यप्राप्तमम्बया चतुर्मुखध्यानमास्थितो बभूव । [२]मध्याह्ने चतुर्मुखरुद्रप्राधान्येनाम्बया ध्यानं गायत्रीहृदयादितः श्रोत्रियमन्त्रप्रसिद्धं चतुर्मुखरुद्राभेदं मामकास्तु विदुः ॥ २२ ॥

 आजगाम ततो ब्रह्मा लोककर्ता स्वयंप्रभुः ।
 चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ॥ २३ ॥

 आजगामेति । स्वयं प्रभुः-अनन्यमुख [३]निरीक्षकतया भूरादिसर्वलोक लौकिकसर्गादिपञ्चकृत्यापेक्षितसमग्रभूमविद्यैश्वर्यानन्दशक्तिमान् । अत एव लोककर्ता-लोकानां भूरादीनां तल्लोकस्थत्रिस्रोतसां च सर्गादिपञ्चकृत्य-साक्षात्कर्ता, साक्षादखण्डकाले प्रतिष्ठत्वात् । अत एव महातेजा:-यत्तेजः समक्षं सर्वतेजांसि चन्द्रग्रहनक्षत्रतारादीन्यस्तं यान्ति । तथा हि श्रुतिः-"अमी य ऋक्षा निहिता स उच्चा । नक्तं ददृश्रे कुह चिद्दिवेयुः ॥" इति । एवं महातेजाश्चतुर्मुखो ब्रह्मेति अम्बाचतुर्व्यूह-विद्यावलम्बनेन तदर्थरामादिचतुर्व्यूह ब्रह्मावतारमूर्तिप्राधान्येन च सन्तत-


  1. अनुजगामेत्यनेनैव पृष्ठतो गमनस्य सिद्धत्वादेव व्याख्यातम् । पृष्ठत इत्युक्तिः अव्यवधानसूचनार्था वा ।
  2. इदं तिलकेऽनूद्य दूषितम् । ध्यानं-अवशोत्पन्नशोक-विषयचिन्ताम्–इति तु. युक्तं ।
  3. निरीक्षितया-ग.